६.१२.९

सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ।
सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथंचन ॥

अन्वयः

एषः this, रजनीचरः night ranger, सुदुष्टोवा: wicked or, अदुष्टोवा: or not wicked, मम: to me, कथञ्चन: What to say, सूक्ष्मम् subtlest, अहितमपि: that which is harmful, कर्तुम् to do, आशक्तः capable.

M N Dutt

Wicked or other wise, whatever this nightranger may be, he shall not be able to do me the least mischief.

Summary

"Whether this night ranger is wicked or not wicked, is he capable of doing even subtlest harm to me?"

पदच्छेदः

सुदुष्टोसुदुष्ट (१.१)
वाप्यदुष्टोवा (अव्ययः)–अपि (अव्ययः)–अदुष्ट (१.१)
वावा (अव्ययः)
किम् (२.१)
एषएतद् (१.१)
रजनीचरःरजनीचर (१.१)
सूक्ष्मम्सूक्ष्म (२.१)
अप्यहितंअपि (अव्ययः)–अहित (२.१)
कर्तुंकर्तुम् (√कृ + तुमुन्)
ममाशक्तःमद् (६.१)–अशक्त (१.१)
कथंचनकथंचन (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु दु ष्टो वाप्य दु ष्टो वा
कि मे नी रः
सूक्ष्मप्यहि तं र्तुं
मा क्तः थं