६.१३.१०

तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः ।
प्रचुक्रुशुर्महानादान्साधु साध्विति चाब्रुवन् ॥

अन्वयः

प्लवङ्गमाः the leaping animals (Vanaras), रामस्य: Rama's, तम्: that, सद्यः that, प्रसादम् grace, दृष्टवा: seeing, प्रचुक्रुशुः moving about in joy, महात्मानम् great self, साधुसाधुइति: good, अब्रुवन् च: hailed saying.

M N Dutt

Beholding Rāma's kindness (towards Vibhīş ana), the monkeys eulogized the high-souled one, exclaiming “Excellent! Excellent!”

Summary

At that instant the Vanaras jumped, moving about exhibiting their joy on witnessing great Rama's grace saying "Good, good."

पदच्छेदः

तंतद् (२.१)
प्रसादंप्रसाद (२.१)
तुतु (अव्ययः)
रामस्यराम (६.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
सद्यःसद्यस् (अव्ययः)
प्लवंगमाःप्लवंगम (१.३)
प्रचुक्रुशुर्प्रचुक्रुशुः (√प्र-क्रुश् लिट् प्र.पु. बहु.)
महानादान्महानाद (२.३)
साधुसाधु (२.१)
साध्वितिसाधु (२.१)–इति (अव्ययः)
चाब्रुवन् (अव्ययः)–अब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंप्र सा दंतु रास्य
दृ ष्ट्वा द्यःप्ल वं माः
प्र चुक्रु शुर्म हा ना दा
न्साधु साध्विति चाब्रु वन्