६.१४.४

पश्य तावदनार्यस्य पूज्यमानस्य लक्ष्मण ।
अवलेपं समुद्रस्य न दर्शयति यत्स्वयम् ॥

पदच्छेदः

पश्यपश्य (√पश् लोट् म.पु. )
तावद्तावत् (अव्ययः)
अनार्यस्यअनार्य (६.१)
पूज्यमानस्यपूज्यमान (√पूजय् + शानच्, ६.१)
लक्ष्मणलक्ष्मण (८.१)
अवलेपंअवलेप (२.१)
समुद्रस्यसमुद्र (६.१)
(अव्ययः)
दर्शयतिदर्शयति (√दर्शय् लट् प्र.पु. एक.)
यत्यत् (अव्ययः)
स्वयम्स्वयम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्य ता ना र्यस्य
पूज्य मास्यक्ष्म
ले पं मु द्रस्य
र्शतित्स्व यम्