६.१५.११

अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये ।
पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः ॥

अन्वयः

अहम् I, पितुः father, सामर्थ्यम् skill, आस्थाय adopting, विस्तीर्णे broad, वरुणालये on the abode of Varuna, सेतुम् bridge, करिष्यामि will build महोदधिः ocean god, तत्त्वम् truth, आह has spoken.

M N Dutt

Resorting to my sire's skill, I will build a bridge over the spacious abode of Makaras. The mighty Ocean has spoken justly.

पदच्छेदः

अहंमद् (१.१)
सेतुंसेतु (२.१)
करिष्यामिकरिष्यामि (√कृ लृट् उ.पु. )
विस्तीर्णेविस्तीर्ण (√वि-स्तृ + क्त, ७.१)
वरुणालयेवरुणालय (७.१)
पितुःपितृ (६.१)
सामर्थ्यम्सामर्थ्य (२.१)
आस्थायआस्थाय (√आ-स्था + ल्यप्)
तत्त्वम्तत्त्व (२.१)
आहआह (√अह् लिट् प्र.पु. एक.)
महोदधिःमहत्–उदधि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हं से तुं रि ष्यामि
वि स्ती र्णेरु णा ये
पि तुः सार्थ्य मा स्था
त्त्व मा हो धिः