६.१५.१३

न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् ।
काममद्यैव बध्नन्तु सेतुं वानरपुंगवाः ॥

M N Dutt

I also am capable of constructing a bridge over Varuna's abode. Therefore this very day let the foremost monkeys construct the bridge.

पदच्छेदः

(अव्ययः)
चाप्यहम् (अव्ययः)–अपि (अव्ययः)–मद् (१.१)
अनुक्तोअनुक्त (१.१)
वैवै (अव्ययः)
प्रब्रूयाम्प्रब्रूयाम् (√प्र-ब्रू विधिलिङ् उ.पु. )
आत्मनोआत्मन् (६.१)
गुणान्गुण (२.३)
कामम्कामम् (अव्ययः)
अद्यैवअद्य (अव्ययः)–एव (अव्ययः)
बध्नन्तुबध्नन्तु (√बन्ध् लोट् प्र.पु. बहु.)
सेतुंसेतु (२.१)
वानरपुंगवाःवानर–पुंगव (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चाप्य नु क्तो वै
प्र ब्रू या मात्म नोगु णान्
का द्यै ध्नन्तु
से तुं वा पुं वाः