६.१५.१९

प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् ।
समुत्पतितमाकाशमपासर्पत्ततस्ततः ॥

अन्वयः

सहसा at once, प्रक्षिप्यमाणैः thrown up, अचलैः mountains, उद्दृतम् rose up, जलम् water, आकाशम् sky, समुत्ससर्प touched, ततः then, पुनः again, अवासर्पत् spread

M N Dutt

And on rocks being plunged into the waters, the latter, suddenly swelling up, mounted to the welkin, and again subsided.

Summary

At once the water threw up (by dropping the mountains) rose, touching the sky and spreading.

पदच्छेदः

प्रक्षिप्यमाणैर्प्रक्षिप्यमाण (√प्र-क्षिप् + शानच्, ३.३)
अचलैःअचल (३.३)
सहसासहस् (३.१)
जलम्जल (१.१)
उद्धतम्उद्धत (√उत्-हन् + क्त, १.१)
समुत्पतितम्समुत्पतित (√समुत्-पत् + क्त, १.१)
आकाशम्आकाश (२.१)
अपासर्पत्अपासर्पत् (√अप-सृप् लङ् प्र.पु. एक.)
ततस्ततःततस् (अव्ययः)–ततस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र क्षिप्य मा णै लैः
सा मुद्ध तम्
मुत्पति मा का
पा र्पत्तस्त तः