६.१५.९

एष सेतुं महोत्साहः करोतु मयि वानरः ।
तमहं धारयिष्यामि तथा ह्येष यथा पिता ॥

अन्वयः

महोत्साहः full of zeal, एषःवानरः this Vanara, मयि over me, सेतुम् bridge, करोतु will built, तम् him, अहम् I, धारयिष्यामि will bear, पिता father, यथा that way, एषः he is, तथा like him.

Summary

"This monkey is full of zeal. He will build a bridge over me, and I will bear it. In that way he is like his father."

पदच्छेदः

एषएतद् (१.१)
सेतुंसेतु (२.१)
महोत्साहःमहत्–उत्साह (१.१)
करोतुकरोतु (√कृ लोट् प्र.पु. एक.)
मयिमद् (७.१)
वानरःवानर (१.१)
तम्तद् (२.१)
अहंमद् (१.१)
धारयिष्यामिधारयिष्यामि (√धारय् लृट् उ.पु. )
तथातथा (अव्ययः)
ह्येषहि (अव्ययः)–एतद् (१.१)
यथायथा (अव्ययः)
पितापितृ (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

से तुं हो त्सा हः
रोतुयि वा रः
हं धा यि ष्यामि
था ह्ये थापि ता