६.१७.१२

सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ।
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः ॥

पदच्छेदः

सर्वशाखामृगेन्द्रस्यसर्व–शाखामृग–इन्द्र (६.१)
सुग्रीवस्यसुग्रीव (६.१)
महात्मनःमहात्मन् (६.१)
बलाग्रेबल–अग्र (७.१)
तिष्ठतेतिष्ठते (√स्था लट् प्र.पु. एक.)
वीरोवीर (१.१)
नीलोनील (१.१)
नामैषनाम (अव्ययः)–एतद् (१.१)
यूथपःयूथप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्व शा खामृ गे न्द्रस्य
सु ग्रीस्य हात्म नः
ला ग्रे तिष्ठ ते वी रो
नी लो ना मै यू पः