६.१७.१४

गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः ।
स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः ॥

पदच्छेदः

गिरिशृङ्गप्रतीकाशःगिरि–शृङ्ग–प्रतीकाश (१.१)
पद्मकिञ्जल्कसंनिभःपद्म–किञ्जल्क–संनिभ (१.१)
स्फोटयत्यभिसंरब्धोस्फोटयति (√स्फोटय् लट् प्र.पु. एक.)–अभिसंरब्ध (√अभिसम्-रभ् + क्त, १.१)
लाङ्गूलंलाङ्गूल (२.१)
(अव्ययः)
पुनःपुनर् (अव्ययः)
पुनःपुनर् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गिरि शृ ङ्गप्र ती का शः
द्म कि ञ्जल्क संनि भः
स्फोत्यभि सं ब्धो
ला ङ्गू लंपु नःपु नः