६.१७.२२

तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ।
योऽसौ शतसहस्राणां सहस्रं परिकर्षति ॥

पदच्छेदः

तत्रतत्र (अव्ययः)
राज्यंराज्य (२.१)
प्रशास्त्येषप्रशास्ति (√प्र-शास् लट् प्र.पु. एक.)–एतद् (१.१)
कुमुदोकुमुद (१.१)
नामनाम (अव्ययः)
यूथपःयूथप (१.१)
योयद् (१.१)
ऽसौअदस् (१.१)
शतसहस्राणांशत–सहस्र (६.३)
सहस्रंसहस्र (२.१)
परिकर्षतिपरिकर्षति (√परि-कृष् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्र रा ज्यंप्र शा स्त्ये
कुमु दो ना यू पः
यो ऽसौ स्रा णां
स्रंरिर्षति