६.१७.५

ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः ।
पश्यमानः समुद्रं च पर्वतांश्च वनानि च ।
ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः ॥

अन्वयः

ताभ्याम् with both of them (Suka and Saarana), चराभ्याम् the spies, सहितः along with, रावणः Ravana, क्रोधमूर्छितः deluded with anger, तंसमुद्रम् that sea, पर्वतांश्च: and mountains, वनाच: and woods, पश्यमानः started observing, प्लवङ्कमैः crowded with monkeys, सुसम्पूर्णम् totally, पृथिवीदेशम् the region of the earth.

Summary

Deluded with anger Ravana along with both the spies observed the sea, the mountains and the woods crowded with monkeys in that region of the earth.

पदच्छेदः

ताभ्यांतद् (३.२)
चराभ्यांचर (३.२)
सहितोसहित (१.१)
रावणःरावण (१.१)
क्रोधमूर्छितःक्रोध–मूर्छित (√मूर्छय् + क्त, १.१)
पश्यमानःपश्यमान (√पश् + शानच्, १.१)
समुद्रंसमुद्र (२.१)
(अव्ययः)
पर्वतांश्चपर्वत (२.३)–च (अव्ययः)
वनानिवन (२.३)
(अव्ययः)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
पृथिवीदेशंपृथिवी–देश (२.१)
सुसम्पूर्णंसु (अव्ययः)–सम्पूर्ण (√सम्-पृ + क्त, २.१)
प्लवंगमैःप्लवंगम (३.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
ता भ्यां रा भ्यांहि तो रा णः क्रो
मूर्छि तःश्य मा नः मु द्रं
र्व तांश्च नानिर्शपृ
थि वी दे शंसु सं पू र्णंप्ल वं मैः