६.१८.३४

तत्रैष रमते राजन्रम्ये काञ्चनपर्वते ।
मुख्यो वानरमुख्यानां केसरी नाम यूथपः ॥

पदच्छेदः

तत्रैषतत्र (अव्ययः)–एतद् (१.१)
रमतेरमते (√रम् लट् प्र.पु. एक.)
राजन्राजत् (√राज् + शतृ, १.१)
रम्येरम्य (७.१)
काञ्चनपर्वतेकाञ्चन–पर्वत (७.१)
मुख्योमुख्य (१.१)
वानरमुख्यानांवानर–मुख्य (६.३)
केसरीकेसरिन् (१.१)
नामनाम (अव्ययः)
यूथपःयूथप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रै ते रा
न्र म्ये काञ्चर्व ते
मु ख्यो वा मु ख्या नां
के री ना यू पः