६.१९.११

ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः ।
हनूमानिति विख्यातो लङ्घितो येन सागरः ॥

अन्वयः

येन this, सागरः sea, लङ्घितः leapt over, केसरिणः Kesari's, ज्येष्ठः eldest, पुत्त्रः son, वातात्मजःइति of WindGod, श्रुतः son, हनूमानिति called Hanuman, विख्यातः popular.

Summary

"He is the eldest son born of Kesari and the son of WindGod and is popularly known as Hanuman. He leapt over the sea and came."

पदच्छेदः

ज्येष्ठःज्येष्ठ (१.१)
केसरिणःकेसरिन् (६.१)
पुत्रोपुत्र (१.१)
वातात्मजवातात्मज (१.१)
इतिइति (अव्ययः)
श्रुतःश्रुत (√श्रु + क्त, १.१)
हनूमान्हनुमन्त् (१.१)
इतिइति (अव्ययः)
विख्यातोविख्यात (√वि-ख्या + क्त, १.१)
लङ्घितोलङ्घित (√लङ्घय् + क्त, १.१)
येनयद् (३.१)
सागरःसागर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्ये ष्ठः केरि णः पु त्रो
वा तात्म तिश्रु तः
नू मानिति वि ख्या तो
ङ्घि तो ये सा रः