६.१९.१८

एष आशंसते लङ्कामेको मर्दितुमोजसा ।
यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः ॥

पदच्छेदः

एषएतद् (१.१)
आशंसतेआशंसते (√आ-शंस् लट् प्र.पु. एक.)
लङ्काम्लङ्का (२.१)
एकोएक (१.१)
मर्दितुम्मर्दितुम् (√मृद् + तुमुन्)
ओजसाओजस् (३.१)
यश्चैषोयद् (१.१)–च (अव्ययः)–एतद् (१.१)
ऽनन्तरःअनन्तर (१.१)
शूरःशूर (१.१)
श्यामःश्याम (१.१)
पद्मनिभेक्षणःपद्म–निभ–ईक्षण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शं ते ङ्का
मे कोर्दितु मो सा
श्चै षो ऽनन्त रः शू रः
श्या मःद्मनि भेक्ष णः