६.१९.१९

इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषः ।
यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते ॥

पदच्छेदः

इक्ष्वाकूणाम्इक्ष्वाकु (६.३)
अतिरथोअतिरथ (१.१)
लोकेलोक (७.१)
विख्यातपौरुषःविख्यात (√वि-ख्या + क्त)–पौरुष (१.१)
यस्मिन्नयद् (७.१)–न (अव्ययः)
चलतेचलते (√चल् लट् प्र.पु. एक.)
धर्मोधर्म (१.१)
योयद् (१.१)
धर्मंधर्म (२.१)
नातिवर्तते (अव्ययः)–अतिवर्तते (√अति-वृत् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्वा कू णाति थो
लो के वि ख्या पौरु षः
स्मिन्न ते र्मो
यो र्मं नातिर्त ते