६.१९.३०

किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् ।
दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ॥

पदच्छेदः

किष्किन्धांकिष्किन्धा (२.१)
यःयद् (१.१)
समध्यास्तेसमध्यास्ते (√समधि-आस् लट् प्र.पु. एक.)
गुहांगुहा (२.१)
सगहनद्रुमाम्सगहन–द्रुम (२.१)
दुर्गांदुर्ग (२.१)
पर्वतदुर्गस्थांपर्वत–दुर्ग–स्थ (२.१)
प्रधानैःप्रधान (३.३)
सहसह (अव्ययः)
यूथपैःयूथप (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कि ष्कि न्धां यः ध्या स्ते
गु हांद्रु माम्
दु र्गांर्व दु र्ग स्थां
प्र धा नैः यू पैः