६.१९.३१

यस्यैषा काञ्चनी माला शोभते शतपुष्करा ।
कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ॥

पदच्छेदः

यस्यैषायद् (६.१)–एतद् (१.१)
काञ्चनीकाञ्चन (१.१)
मालामाला (१.१)
शोभतेशोभते (√शुभ् लट् प्र.पु. एक.)
शतपुष्कराशत–पुष्कर (१.१)
कान्ताकान्त (१.१)
देवमनुष्याणांदेव–मनुष्य (६.३)
यस्यांयद् (७.१)
लक्ष्मीःलक्ष्मी (१.१)
प्रतिष्ठिताप्रतिष्ठित (√प्रति-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यै षा काञ्च नी मा ला
शो ते पुष्क रा
का न्ता दे नु ष्या णां
स्यां क्ष्मीःप्र तिष्ठि ता