६.२.८

एषां हर्षेण जानामि तर्कश्चास्मिन्दृढो मम ।
विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् ॥

पदच्छेदः

एषांइदम् (६.३)
हर्षेणहर्ष (३.१)
जानामिजानामि (√ज्ञा लट् उ.पु. )
तर्कश्चास्मिन्तर्क (१.१)–च (अव्ययः)–इदम् (७.१)
दृढोदृढ (१.१)
मममद् (६.१)
विक्रमेणविक्रम (३.१)
समानेष्येसमानेष्ये (√समा-नी लृट् उ.पु. )
सीतांसीता (२.१)
हत्वाहत्वा (√हन् + क्त्वा)
यथायथा (अव्ययः)
रिपुम्रिपु (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

षां र्षे जा नामि
र्क श्चा स्मिन्दृ ढो
विक्र मे मा ने ष्ये
सी तां त्वा थारि पुम्