६.२०.१

शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान् ।
समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् ॥

पदच्छेदः

शुकेनशुक (३.१)
तुतु (अव्ययः)
समाख्यातांस्तान्समाख्यात (√समा-ख्या + क्त, २.३)–तद् (२.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
हरियूथपान्हरि–यूथप (२.३)
समीपस्थंसमीप–स्थ (२.१)
(अव्ययः)
रामस्यराम (६.१)
भ्रातरंभ्रातृ (२.१)
स्वंस्व (२.१)
विभीषणम्विभीषण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शु केतु मा ख्या तां
स्ता न्दृ ष्ट्वारि यू पान्
मी स्थं रास्य
भ्रा रं स्वंवि भी णम्