६.२०.२

लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् ।
सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ॥

पदच्छेदः

लक्ष्मणंलक्ष्मण (२.१)
(अव्ययः)
महावीर्यंमहत्–वीर्य (२.१)
भुजंभुज (२.१)
रामस्यराम (६.१)
दक्षिणम्दक्षिण (२.१)
सर्ववानरराजंसर्व–वानर–राज (२.१)
(अव्ययः)
सुग्रीवंसुग्रीव (२.१)
भीमविक्रमम्भीम–विक्रम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्म णं हा वी र्यं
भु जं रास्यक्षि णम्
र्व वा रा जं
सु ग्री वं भी विक्र मम्