६.२०.१९

चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः ।
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ॥

अन्वयः

पण्डितै wise, वसुधाधिपै kings of the land, चारेण from the spies, विदित knowing, शत्रु enemies, युद्धे in war, समासाद्य having known, स्वल्पेन little, यत्नेन effort, निरस्यते destroy.

M N Dutt

The wise king that gathers (a knowledge of) his enemy through spies, can, putting forth a modicum of effort in conflict, neutralise (his exertions).

Summary

"Wise kings of the land, having known about enemies from the spies destroy enemies in war with little effort."

पदच्छेदः

चारेणचार (३.१)
विदितःविदित (√विद् + क्त, १.१)
शत्रुःशत्रु (१.१)
पण्डितैर्पण्डित (३.३)
वसुधाधिपैःवसुधा–अधिप (३.३)
युद्धेयुद्ध (७.१)
स्वल्पेनसु (अव्ययः)–अल्प (३.१)
यत्नेनयत्न (३.१)
समासाद्यसमासाद्य (√समा-सादय् + ल्यप्)
निरस्यतेनिरस्यते (√निः-अस् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चा रेविदि तः त्रुः
ण्डि तैर्वसु धाधि पैः
यु द्धे स्व ल्पे त्ने
मा साद्यनिस्य ते