६.२०.३

किंचिदाविग्नहृदयो जातक्रोधश्च रावणः ।
भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ ॥

पदच्छेदः

किंचिद्कश्चित् (२.१)
आविग्नहृदयोआविग्न (√आ-विज् + क्त)–हृदय (१.१)
जातक्रोधश्चजात (√जन् + क्त)–क्रोध (१.१)–च (अव्ययः)
रावणःरावण (१.१)
भर्त्सयामासभर्त्सयामास (√भर्त्सय् प्र.पु. एक.)
तौतद् (२.२)
वीरौवीर (२.२)
कथान्तेकथा–अन्त (७.१)
शुकसारणौशुक–सारण (२.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

किंचि दा विग्नहृ यो
जा क्रोश्च रा णः
र्त्स या मा तौ वी रौ
था न्तेशु सा णौ