६.२०.२४

ततो दशग्रीवमुपस्थितास्ते; चारा बहिर्नित्यचरा निशाचराः ।
गिरेः सुवेलस्य समीपवासिनं; न्यवेदयन्भीमबलं महाबलाः ॥

M N Dutt

Then those exceedingly strong spies, always ranging outside, presenting themselves before the Ten-necked one, informed him of the forces of Rāma, stationed near mount Suvela.

पदच्छेदः

ततोततस् (अव्ययः)
दशग्रीवम्दशग्रीव (२.१)
उपस्थितास्तेउपस्थित (√उप-स्था + क्त, १.३)–तद् (१.३)
चाराचार (१.३)
बहिर्नित्यचराबहिस् (अव्ययः)–नित्य–चर (१.३)
निशाचराःनिशाचर (१.३)
गिरेःगिरि (६.१)
सुवेलस्यसुवेल (६.१)
समीपवासिनंसमीप–वासिन् (२.१)
न्यवेदयन्न्यवेदयन् (√नि-वेदय् लङ् प्र.पु. बहु.)
भीमबलंभीम–बल (२.१)
महाबलाःमहत्–बल (१.३)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
तो ग्रीमुस्थि ता स्ते
चा रा हि र्नित्य रानि शा राः
गि रेःसु वेस्य मी वासि नं
न्य वे न्भी लं हा लाः