६.२२.२७

असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः ।
अभिष्टनति मेदिन्यां पनसः पनसो यथा ॥

पदच्छेदः

असिनाभ्याहतश्छिन्नोअसि (३.१)–अभ्याहत (√अभ्या-हन् + क्त, १.१)–छिन्न (√छिद् + क्त, १.१)
मध्येमध्य (७.१)
रिपुनिषूदनःरिपु–निषूदन (१.१)
अभिष्टनतिअभिष्टनति (√अभि-स्तन् लट् प्र.पु. एक.)
मेदिन्यांमेदिनी (७.१)
पनसःपनस (१.१)
पनसोपनस (१.१)
यथायथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सि ना भ्या श्छि न्नो
ध्येरिपुनि षू नः
भिष्टति मे दि न्यां
सः सो था