६.२२.३६

राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय ।
येन तद्राघवशिरः संग्रामात्स्वयमाहृतम् ॥

अन्वयः

येन he who, तत् that, राघवशिरः Rama's head, सङ्ग्रामात् from the battlefield, स्वयम् the one, आहृतम् who brought, क्रूरकर्माणम् one of cruel deeds, राक्षसम् Rakshasa, विद्युज्जिह्वम् Vidyujihvam, त्वमानयः bring along.

M N Dutt

Bring (hither) the Raksasa, Vidyujjibha of cruel deeds, who has personally brought Rāghava's head from the field.

Summary

"Bring that Rakshasa, Vidyujihvam of cruel deeds who brought Rama's head from the battlefield."

पदच्छेदः

राक्षसंराक्षस (२.१)
क्रूरकर्माणंक्रूर–कर्मन् (२.१)
विद्युज्जिह्वंविद्युज्जिह्व (२.१)
त्वम्त्वद् (१.१)
आनयआनय (√आ-नी लोट् म.पु. )
येनयद् (३.१)
तद्तद् (१.१)
राघवशिरःराघव–शिरस् (१.१)
संग्रामात्संग्राम (५.१)
स्वयम्स्वयम् (अव्ययः)
आहृतम्आहृत (√आ-हृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राक्ष सं क्रू र्मा णं
वि द्यु ज्जि ह्वंत्व मा
ये द्राशि रः
सं ग्रा मात्स्व माहृ तम्