६.२२.६

ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् ।
मायाविदं महामायः प्राविशद्यत्र मैथिली ॥

अन्वयः

ततः then, महामायः extraordinary skills, महाबलम् mighty, मायाविदम् learned in conjuring tricks, विद्युज्जिह्वम् Vidyujihvam, आदाय sent for, मैथिली Mythili, यत्र there, प्राविशत् went.

M N Dutt

Then, taking with him the highly strong Vidyujjihva, huge bodied and gifted with the powers of illusion, he entered where Mithila's daughter was.

Summary

Then Ravana of extraordinary skills sent for Vidyujihvam, a learned one in conjuring tricks and went from there to Mythili.

पदच्छेदः

ततोततस् (अव्ययः)
राक्षसम्राक्षस (२.१)
आहूयआहूय (√आ-ह्वा + ल्यप्)
विद्युज्जिह्वंविद्युज्जिह्व (२.१)
महाबलम्महत्–बल (२.१)
मायाविदंमाया–विद् (२.१)
महामायःमहत्–माया (१.१)
प्राविशद्प्राविशत् (√प्र-विश् लङ् प्र.पु. एक.)
यत्रयत्र (अव्ययः)
मैथिलीमैथिली (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो राक्ष मा हू
वि द्यु ज्जि ह्वं हा लम्
मा यावि दं हा मा यः
प्रावि द्यत्र मैथि ली