६.२३.१०

दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे ।
यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥

अन्वयः

दुःखात् in grief, दुःखम् grief, प्रपन्नायाः reaching at, शोकसागरे ocean of sorrow, मग्नायाः filled, यः who, त्वम् you, त्रातु, to save उद्यतः have come, सोऽपि you are also, विनिपातितः are killed.

Summary

"I am in grief and filled with an ocean of sorrow. You who have come to save me and are also killed."

पदच्छेदः

दुःखाद्दुःख (५.१)
दुःखंदुःख (२.१)
प्रपन्नायाप्रपन्न (√प्र-पद् + क्त, ६.१)
मग्नायाःमग्न (√मज्ज् + क्त, ६.१)
शोकसागरेशोक–सागर (७.१)
योयद् (१.१)
हिहि (अव्ययः)
माम्मद् (२.१)
उद्यतस्त्रातुंउद्यत (√उत्-यम् + क्त, १.१)–त्रातुम् (√त्रा + तुमुन्)
सोतद् (१.१)
ऽपिअपि (अव्ययः)
त्वंत्वद् (१.१)
विनिपातितःविनिपातित (√विनि-पातय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दुः खा द्दुः खंप्र न्ना या
ग्ना याः शो सा रे
योहि मा मुद्य स्त्रा तुं
सो ऽपि त्वंविनि पाति तः