६.२४.३०

आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् ।
अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते ॥

अन्वयः

शत्रौ enemy, विनिपातिते after killing, सिद्धार्धाम् having accomplished, त्वाम् you, आगतव्य mounted on, रामस्य Rama's, अङ्कागतांसतीम् on the lap Rama, क्षिप्रम् soon, अहम् I, द्रक्ष्यामि will behold you.

M N Dutt

On the enemy having fallen, I shall behold you, devoted to your lord, with your desire attained, soon lying on the lap of Rama.

Summary

"When the enemy is killed, and your objective is accomplished, I shall behold you mounted on the lap of Rama."

पदच्छेदः

आगतस्यआगत (√आ-गम् + क्त, ६.१)
हिहि (अव्ययः)
रामस्यराम (६.१)
क्षिप्रम्क्षिप्रम् (अव्ययः)
अङ्कगतांअङ्क–गत (√गम् + क्त, २.१)
सतीम्सत् (√अस् + शतृ, २.१)
अहंमद् (१.१)
द्रक्ष्यामिद्रक्ष्यामि (√दृश् लृट् उ.पु. )
सिद्धार्थांसिद्धार्थ (२.१)
त्वांत्वद् (२.१)
शत्रौशत्रु (७.१)
विनिपातितेविनिपातित (√विनि-पातय् + क्त, ७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यहि रास्य
क्षिप्रङ्क तां तीम्
हं द्र क्ष्यामि सि द्धा र्थां
त्वां त्रौविनि पाति ते