६.२४.३६

गिरिवरमभितोऽनुवर्तमानो; हय इव मण्डलमाशु यः करोति ।
तमिह शरणमभ्युपेहि देवि; दिवसकरं प्रभवो ह्ययं प्रजानाम् ॥

M N Dutt

Do you, O exalted one, take refuge with him, who, going round the foremost of mountains, speedily assume a steed-like circular movement; for even the maker of day is the source of people's joy and grief.

पदच्छेदः

गिरिवरम्गिरि–वर (२.१)
अभितोअभितस् (अव्ययः)
ऽनुवर्तमानोअनुवर्तमान (√अनु-वृत् + शानच्, १.१)
हयहय (१.१)
इवइव (अव्ययः)
मण्डलम्मण्डल (२.१)
आशुआशु (२.१)
यःयद् (१.१)
करोतिकरोति (√कृ लट् प्र.पु. एक.)
तम्तद् (२.१)
इहइह (अव्ययः)
शरणम्शरण (२.१)
अभ्युपेहिअभ्युपेहि (√अभ्युप-इ लोट् म.पु. )
देविदेवी (८.१)
दिवसकरंदिवसकर (२.१)
प्रभवोप्रभव (१.१)
ह्ययंहि (अव्ययः)–इदम् (१.१)
प्रजानाम्प्रजा (६.३)

छन्दः

पुष्पिताग्रा []

छन्दोविश्लेषणम्

१०१११२१३
गिरिभि तोऽनुर्त मा नो
ण्ड माशु यः रोति
मिभ्यु पेहि देवि
दि रंप्र वोह्य यंप्र जा नाम्