६.२६.१७

तपसा भावितात्मानो धर्मस्यानुग्रहे रताः ।
मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः ॥

पदच्छेदः

तपसातपस् (३.१)
भावितात्मानोभावित (√भावय् + क्त)–आत्मन् (१.३)
धर्मस्यानुग्रहेधर्म (६.१)–अनुग्रह (७.१)
रताःरत (√रम् + क्त, १.३)
मुख्यैर्मुख्य (३.३)
यज्ञैर्यज्ञ (३.३)
यजन्त्येतेयजन्ति (√यज् लट् प्र.पु. बहु.)–एतद् (१.३)
नित्यंनित्यम् (अव्ययः)
तैस्तैर्तद् (३.३)–तद् (३.३)
द्विजातयःद्विजाति (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा भावि ता त्मा नो
र्म स्या नुग्र हे ताः
मु ख्यै र्य ज्ञैर्य न्त्ये ते
नि त्यं तै स्तैर्द्वि जा यः