६.२७.१४

एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् ।
व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत ॥

अन्वयः

एवं in that way, संरब्धम् abashed, ब्रुवाणम् speaking, रावणम् to Ravana, रुष्टम् anger, विज्ञाय knowing, माल्यवान् Malyavan, व्रीळितः feeling shy, उत्तरम् reply, वाक्यम् words, नप्रत्यपद्यत not uttered.

M N Dutt

When Ravana, wrought up with passion, had spoken thus, Malyavan, knowing him wroth, did not return a reply.

Summary

When Ravana was abashed and speaking in that way realizing that he is angry, Malyavan did not reply feeling shy.

पदच्छेदः

एवंएवम् (अव्ययः)
ब्रुवाणंब्रुवाण (√ब्रू + शानच्, २.१)
संरब्धंसंरब्ध (२.१)
रुष्टंरुष्ट (√रुष् + क्त, २.१)
विज्ञायविज्ञाय (√वि-ज्ञा + ल्यप्)
रावणम्रावण (२.१)
व्रीडितोव्रीडित (√व्रीड् + क्त, १.१)
माल्यवान्माल्यवन्त् (१.१)
वाक्यंवाक्य (२.१)
नोत्तरं (अव्ययः)–उत्तर (२.१)
प्रत्यपद्यतप्रत्यपद्यत (√प्रति-पद् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंब्रु वा णं सं ब्धं
रु ष्टं वि ज्ञा रा णम्
व्रीडि तो माल्य वा न्वा क्यं
नोत्त रं प्रत्यद्य