६.२८.१२

नानाप्रहरणैः शूरैरावृतो रावणात्मजः ।
राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः ॥

पदच्छेदः

नानाप्रहरणैःनाना (अव्ययः)–प्रहरण (३.३)
शूरैर्शूर (३.३)
आवृतोआवृत (√आ-वृ + क्त, १.१)
रावणात्मजःरावण–आत्मज (१.१)
राक्षसानांराक्षस (६.३)
सहस्रैस्तुसहस्र (३.३)–तु (अव्ययः)
बहुभिःबहु (३.३)
शस्त्रपाणिभिःशस्त्र–पाणि (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना नाप्र णैः शू रै
रावृ तो रा णात्म जः
राक्ष सा नां स्रैस्तु
हु भिःस्त्र पाणि भिः