६.२८.१३

युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः ।
उत्तरं नगरद्वारं रावणः स्वयमास्थितः ॥

अन्वयः

रावणः Ravana, शस्त्रपाणिभिः wielding weapons, राक्षसानाम् with Rakshasas, बहुभिः many, वृतः surrounded by, सहस्रैः thousands, युक्तः skilled, राक्षसैः Rakshasas, परमसंविग्नः highly agitated, उत्तरम् north, नगरद्वारम् gate of the city, स्वयम् himself, आस्थितः stands.

M N Dutt

And, backed by many thousands of Räkşasas wielding weapons, and accompanied by Rākşasas conversant with counsel, Rāvana himself, his heart agitated to the height, gaurd the Northern gate of the city.

Summary

"Ravana himself stands at the north gate of Lanka, highly agitated surrounded by many thousands of Rakshasas wielding weapons."

पदच्छेदः

युक्तःयुक्त (√युज् + क्त, १.१)
परमसंविग्नोपरम–संविग्न (√सम्-विज् + क्त, १.१)
राक्षसैर्राक्षस (३.३)
बहुभिर्बहु (३.३)
वृतःवृत (√वृ + क्त, १.१)
उत्तरंउत्तर (२.१)
नगरद्वारंनगर–द्वार (२.१)
रावणःरावण (१.१)
स्वयम्स्वयम् (अव्ययः)
आस्थितःआस्थित (√आ-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यु क्तः सं वि ग्नो
राक्ष सैर्बहु भिर्वृ तः
त्त रं द्वा रं
रा णःस्व मास्थि तः