६.२८.१५

एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य ते ।
मामकाः सचिवाः सर्वे शीघ्रं पुनरिहागताः ॥

अन्वयः

मामकाः our, सर्वे all, तेमन्त्रिणः the ministers, एवंविधान् in this way, एतान् them, गुल्मान् in the city, लङ्कायाम् of Lanka, समुदीक्ष्य keenly observed, शीघ्रम् immediately, पुनः again, इह here, आगताः reached.

M N Dutt

Having seen these hosts thus disposed in Lankä, my counsellors have speedily come back here.

Summary

All our ministers immediately returned back after keenly observing the city of Lanka in this way.

पदच्छेदः

एतान्एतद् (२.३)
एवंविधान्एवंविध (२.३)
गुल्मांल्गुल्म (२.३)
लङ्कायांलङ्का (७.१)
समुदीक्ष्यसमुदीक्ष्य (√समुत्-ईक्ष् + ल्यप्)
तेतद् (१.३)
मामकाःमामक (१.३)
सचिवाःसचिव (१.३)
सर्वेसर्व (१.३)
शीघ्रंशीघ्र (२.१)
पुनर्पुनर् (अव्ययः)
इहागताःइह (अव्ययः)–आगत (√आ-गम् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता ने वंवि धा न्गु ल्मा
ल्ल ङ्का यांमु दीक्ष्य ते
मा काःचि वाः र्वे
शी घ्रंपुरि हा ताः