६.२८.२८

दैत्यदानवसंघानामृषीणां च महात्मनाम् ।
विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः ॥

पदच्छेदः

दैत्यदानवसंघानाम्दैत्य–दानव–संघ (६.३)
ऋषीणांऋषि (६.३)
(अव्ययः)
महात्मनाम्महात्मन् (६.३)
विप्रकारप्रियःविप्रकार–प्रिय (१.१)
क्षुद्रोक्षुद्र (१.१)
वरदानबलान्वितःवर–दान–बल–अन्वित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दैत्य दा सं घा ना
मृ षी णां हात्म नाम्
विप्र काप्रि यः क्षु द्रो
दा लान्वि तः