६.२८.२९

परिक्रामति यः सर्वाँल्लोकान्संतापयन्प्रजाः ।
तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः ॥

पदच्छेदः

परिक्रामतिपरिक्रामति (√परि-क्रम् लट् प्र.पु. एक.)
यःयद् (१.१)
सर्वांल्सर्व (२.३)
लोकान्लोक (२.३)
संतापयन्संतापयत् (√सम्-तापय् + शतृ, १.१)
प्रजाःप्रजा (२.३)
तस्याहंतद् (६.१)–मद् (१.१)
राक्षसेन्द्रस्यराक्षस–इन्द्र (६.१)
स्वयम्स्वयम् (अव्ययः)
एवएव (अव्ययः)
वधेवध (७.१)
धृतःधृत (√धृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रि क्राति यः र्वा
ल्लो का न्सं तान्प्र जाः
स्या हं राक्ष से न्द्रस्य
स्व मे धेधृ तः