६.२८.३०

उत्तरं नगरद्वारमहं सौमित्रिणा सह ।
निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ॥

पदच्छेदः

उत्तरंउत्तर (२.१)
नगरद्वारम्नगर–द्वार (२.१)
अहंमद् (१.१)
सौमित्रिणासौमित्रि (३.१)
सहसह (अव्ययः)
निपीड्याभिप्रवेक्ष्यामिनिपीड्य (√नि-पीडय् + ल्यप्)–अभिप्रवेक्ष्यामि (√अभिप्र-विश् लृट् उ.पु. )
सबलोसबल (१.१)
यत्रयत्र (अव्ययः)
रावणःरावण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्त रं द्वा
हं सौ मित्रि णा
नि पी ड्या भिप्र वे क्ष्यामि
लोत्र रा णः