६.२८.३६

ततस्तु रामो महता बलेन; प्रच्छाद्य सर्वां पृथिवीं महात्मा ।
प्रहृष्टरूपोऽभिजगाम लङ्कां; कृत्वा मतिं सोऽरिवधे महात्मा ॥

M N Dutt

Then, environed by a mighty host, the highsouled and magnanimous Rāma, his features mirroring forth high exultation, overshadowing the entire Earth (with his forces), set out for Lankā, determined upon destroying the enemy.

पदच्छेदः

ततस्तुततस् (अव्ययः)–तु (अव्ययः)
रामोराम (१.१)
महतामहत् (३.१)
बलेनबल (३.१)
प्रच्छाद्यप्रच्छाद्य (√प्र-छादय् + ल्यप्)
सर्वांसर्व (२.१)
पृथिवींपृथिवी (२.१)
महात्मामहात्मन् (१.१)
प्रहृष्टरूपोप्रहृष्ट (√प्र-हृष् + क्त)–रूप (१.१)
ऽभिजगामअभिजगाम (√अभि-गम् लिट् प्र.पु. एक.)
लङ्कांलङ्का (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
मतिंमति (२.१)
सोतद् (१.१)
ऽरिवधेअरि–वध (७.१)
महात्मामहात्मन् (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
स्तु रा मो ता ले
प्र च्छाद्य र्वांपृथि वीं हा त्मा
प्र हृष्ट रू पोऽभि गा ङ्कां
कृ त्वा तिं सोऽरि धे हा त्मा