६.३.१७

एकस्त्वकम्प्यो बलवान्संक्रमः सुमहादृढः ।
काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥

अन्वयः

काञ्चनै: golden, बहुभिः many, स्तम्भै: pillars, वेदिकाभिश्च: altars , शोभितः shining, बलवान्: strong, सुमहादृढः steady, एकः one, सङ्क्रमस्तु: road way, अकम्प्यः not shaky

M N Dutt

One among these bridges is immovable, strong and fast established; adorned with golden pillars and daises.

Summary

"One of the road ways is very strong and steady, shining with unshakeable golden pillars and altars."

पदच्छेदः

एकस्त्वकम्प्योएक (१.१)–तु (अव्ययः)–अकम्प्य (१.१)
बलवान्बलवत् (१.१)
संक्रमःसंक्रम (१.१)
सुमहादृढःसु (अव्ययः)–महत्–दृढ (१.१)
काञ्चनैर्काञ्चन (३.३)
बहुभिःबहु (३.३)
स्तम्भैर्स्तम्भ (३.३)
वेदिकाभिश्चवेदिका (३.३)–च (अव्ययः)
शोभितःशोभित (√शोभय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्त्व म्प्यो वा
न्संक्र मःसु हादृ ढः
काञ्च नैर्बहु भिः स्त म्भै
र्वेदि का भिश्च शोभि तः