६.३.३०

अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः ।
नीलः सेनापतिश्चैव बलशेषेण किं तव ॥

पदच्छेदः

अङ्गदोअङ्गद (१.१)
द्विविदोद्विविद (१.१)
मैन्दोमैन्द (१.१)
जाम्बवान्जाम्बवन्त् (१.१)
पनसोपनस (१.१)
नलःनल (१.१)
नीलःनील (१.१)
सेनापतिश्चैवसेनापति (१.१)–च (अव्ययः)–एव (अव्ययः)
बलशेषेणबल–शेष (३.१)
किं (१.१)
तवत्वद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्ग दोद्विवि दो मै न्दो
जाम्ब वान्प सो लः
नी लः से ना ति श्चै
शे षे किं