६.३.३१

प्लवमाना हि गत्वा तां रावणस्य महापुरीम् ।
सप्रकारां सभवनामानयिष्यन्ति मैथिलीम् ॥

पदच्छेदः

प्लवमानाप्लवमान (√प्लु + शानच्, १.३)
हिहि (अव्ययः)
गत्वागत्वा (√गम् + क्त्वा)
तांतद् (२.१)
रावणस्यरावण (६.१)
महापुरीम्महत्–पुरी (२.१)
सप्रकारां (अव्ययः)–प्रकार (२.१)
सभवनाम् (अव्ययः)–भवन (२.१)
आनयिष्यन्तिआनयिष्यन्ति (√आ-नी लृट् प्र.पु. बहु.)
मैथिलीम्मैथिली (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्ल मा नाहि त्वा तां
रास्य हापु रीम्
प्र का रां ना
मा यि ष्यन्ति मैथि लीम्