६.३०.२१

सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः ।
काञ्चनेन च सालेन राजतेन च शोभिता ॥

अन्वयः

सा that, पुरी city, उच्चैः tall, पाण्डुराम्बुदसन्निभैः like white cluster of clouds, गोपुरैः towers, काञ्चनेन with gold, राजतेनच and silver, शालेन fortified, शोभते charming.

Summary

The city of Lanka looked charming with tall towers resembling white cluster of clouds fortified with gold and silver.

पदच्छेदः

सातद् (१.१)
पुरीपुरी (१.१)
गोपुरैर्गोपुर (३.३)
उच्चैःउच्चैस् (अव्ययः)
पाण्डुराम्बुदसंनिभैःपाण्डुर–अम्बुद–संनिभ (३.३)
काञ्चनेनकाञ्चन (३.१)
(अव्ययः)
सालेनसाल (३.१)
राजतेनराजत (३.१)
(अव्ययः)
शोभिताशोभित (√शोभय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सापु री गोपु रै रु च्चैः
पाण्डु राम्बु संनि भैः
काञ्च ने सा ले
रा ते शोभि ता