६.३१.१३

इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः ।
तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः ॥

अन्वयः

वीरः hero, महाबलः mighty, लक्ष्मणाग्रजः Lakshmana's elder brother, इत्येवम् in this manner, लक्ष्मणम् to Lakshmana, वदन् said, तस्मात् from there, पर्वताग्रात् peak of the mountain, शीघ्रम् without delay, अवातरत् descended.

M N Dutt

Having said this to Laksmana, Laksmana's elder brother possessed of exceeding strength, hastily descended from the top of the mountain.

Summary

Mighty hero Rama, (the elder brother of Lakshmana) said to Lakshmana in this manner (as described earlier) and descended from the peak of the mountain without delay.

पदच्छेदः

इत्येवंइति (अव्ययः)–एवम् (अव्ययः)
तुतु (अव्ययः)
वदन्वदत् (√वद् + शतृ, १.१)
वीरोवीर (१.१)
लक्ष्मणंलक्ष्मण (२.१)
लक्ष्मणाग्रजःलक्ष्मण–अग्रज (१.१)
तस्माद्तद् (५.१)
अवातरच्छीघ्रंअवातरत् (√अव-तृ लङ् प्र.पु. एक.)–शीघ्र (२.१)
पर्वताग्रान्पर्वत–अग्र (५.१)
महाबलःमहत्–बल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्ये वंतु न्वी रो
क्ष्म णंक्ष्म णाग्र जः
स्मा वा च्छी घ्रं
र्व ता ग्रान्म हा लः