६.३१.७१

इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुंगवे ।
अमर्षवशमापन्नो निशाचरगणेश्वरः ॥

अन्वयः

हरिपुङ्गवे leader of monkey army, इत्येवम् in this way, परुषम् harsh, वाक्यम् words, ब्रुवाणे having spoken, निशाचरगणेश्वरः ruler of night rangers, अमर्षवशम् by fury, आपन्नः overtaken.

M N Dutt

When that monkey-chief had spoken thus, the lord of the night-rangers was wrought up with wrath.

Summary

The leader of the monkeys having spoken in that manner, Ravana the ruler of night rangers was overtaken by fury.

पदच्छेदः

इत्येवंइति (अव्ययः)–एवम् (अव्ययः)
परुषंपरुष (२.१)
वाक्यंवाक्य (२.१)
ब्रुवाणेब्रुवाण (√ब्रू + शानच्, ७.१)
हरिपुंगवेहरि–पुंगव (७.१)
अमर्षवशम्अमर्ष–वश (२.१)
आपन्नोआपन्न (√आ-पद् + क्त, १.१)
निशाचरगणेश्वरःनिशाचर–गण–ईश्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्ये वंरु षं वा क्यं
ब्रु वा णेरि पुं वे
र्ष मा न्नो
नि शा णेश्व रः