६.३१.७३

रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः ।
जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ॥

अन्वयः

ततः thereafter, घोराः terrific, चत्वारः four, रजनीचराः night rangers, रावणस्य of Ravana, वचः words, श्रुत्वा having heard, समतेजसा of equal brilliance, दीप्ताग्नि blazing like fire, तम् him, Angada, जगृहुः seized.

M N Dutt

Hearing Råvaņa's speech, four grim-visaged night rangers seized (Angada) flaming in energy like fire itself,

Summary

Thereafter, having heard the words of Ravana, the four Rakshasas seized Angada blazing in brilliance like fire.

पदच्छेदः

रावणस्यरावण (६.१)
वचःवचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
दीप्ताग्निसमतेजसःदीप्त (√दीप् + क्त)–अग्नि–सम–तेजस् (६.१)
जगृहुस्तंजगृहुः (√ग्रह् लिट् प्र.पु. बहु.)–तद् (२.१)
ततोततस् (अव्ययः)
घोराश्चत्वारोघोर (१.३)–चतुर् (१.३)
रजनीचराःरजनीचर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्य चः श्रु त्वा
दी प्ताग्नि ते सः
गृ हु स्तं तो घो रा
श्च त्वा रो नी राः