६.३१.७७

ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् ।
तत्पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः ॥

अन्वयः

ततः then, प्रतापवान् courageous, वालिपुत्रः Vali's son, राक्षसेन्द्रस्य at Ravana, शैलशृङ्गमिव like the peak of mountain, उन्नतम् high, प्रासादशिखरम् peak of the palace, ददर्श saw.

M N Dutt

Then the powerful son of Vāli with his legs attacked the top of that palace, elevated like a hill, of the lord of Rākşasas.

Summary

Then as the courageous Vali's son landed on the high peak of the palace which resembled a mountain peak, Ravana stood looking.

पदच्छेदः

ततःततस् (अव्ययः)
प्रासादशिखरंप्रासाद–शिखर (१.१)
शैलशृङ्गम्शैल–शृङ्ग (१.१)
इवोन्नतम्इव (अव्ययः)–उन्नत (√उत्-नम् + क्त, १.१)
तत्तद् (२.१)
पफालपफाल (√फल् लिट् प्र.पु. एक.)
तदाक्रान्तंतद्–आक्रान्त (√आ-क्रम् + क्त, १.१)
दशग्रीवस्यदशग्रीव (६.१)
पश्यतःपश्यत् (√दृश् + शतृ, ६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः प्रा साशि रं
शै शृङ्गमि वोन्न तम्
त्प फा दा क्रा न्तं
ग्रीस्यश्य तः