६.३२.१८

दक्षिणद्वारमागम्य वीरः शतबलिः कपिः ।
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥

अन्वयः

वीरः valiant, शतबलिः Satabali, कपिः monkey, विंशत्या twenty, कोटिभि crores, आवृत्य surrounded by, बलवांस्तस्थौ stood besieging, दक्षिणं south, द्वारमागम्य reached the gate.

M N Dutt

And obstruction the Southern entrance stood the strong and gallant monkey, Śatabali surrounded by twenty koțis.

Summary

Valiant Satabali with twenty crores of monkeys stood besieging the south gate.

पदच्छेदः

दक्षिणद्वारम्दक्षिण–द्वार (२.१)
आगम्यआगम्य (√आ-गम् + ल्यप्)
वीरःवीर (१.१)
शतबलिःशतबलि (१.१)
कपिःकपि (१.१)
आवृत्यआवृत्य (√आ-वृ + ल्यप्)
बलवांस्तस्थौबलवत् (१.१)–तस्थौ (√स्था लिट् प्र.पु. एक.)
विंशत्याविंशति (३.१)
कोटिभिर्कोटि (३.३)
वृतःवृत (√वृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षि द्वा माम्य
वी रः लिः पिः
वृत्य वां स्त स्थौ
विं त्या कोटि भिर्वृ तः