६.३३.१२

वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः ।
राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥

अन्वयः

वज्रमुष्टिः Vajramushti, तु also, मैन्देन with Mainda, अशनिप्रभः Asaniprabhu, द्विविदेन with Dwivida कपिमुख्यौ chief of monkeys, सुघोराभ्याम् fearful, राक्षसाभ्याम् with the two Rakshasas, समागतौ fought.

Summary

Vajramushti with Mainda and Asaniprabhu with Dwivida, the chief of monkeys, fought with the two Rakshasas.

पदच्छेदः

वज्रमुष्टिस्तुवज्रमुष्टि (१.१)–तु (अव्ययः)
मैन्देनमैन्द (३.१)
द्विविदेनाशनिप्रभःद्विविद (३.१)–अशनिप्रभ (१.१)
राक्षसाभ्यांराक्षस (३.२)
सुघोराभ्यांसु (अव्ययः)–घोर (३.२)
कपिमुख्यौकपि–मुख्य (१.२)
समागतौसमागत (√समा-गम् + क्त, १.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्र मु ष्टिस्तु मै न्दे
द्विवि दे ना निप्र भः
राक्ष सा भ्यांसु घो रा भ्यां
पि मु ख्यौ मा तौ