६.३३.१९

तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।
जघान समरे श्रीमानङ्गदो वेगवान्कपिः ॥

अन्वयः

कपिः monkey, अङ्गदः Angada, वेगवान् swiftly, समरे in fight, तस्य his, काञ्चनचित्राङ्गम् bright with gold, साश्वम् horses, ससारथिम् with charioteer, रथम् chariot, जघान destroyed.

M N Dutt

Thereat, that graceful monkey, Angada, gifted with vehemence, with his mace crushed his car decked in gold, together with the steeds and the charioteer.

Summary

With the same mace (snatched from the Rakshasa) Angada swiftly struck Indrajit hand destroyed the horse, chariot, and charioteer.

पदच्छेदः

तस्यतद् (६.१)
काञ्चनचित्राङ्गंकाञ्चन–चित्र–अङ्ग (२.१)
रथंरथ (२.१)
साश्वं (अव्ययः)–अश्व (२.१)
ससारथिम् (अव्ययः)–सारथि (२.१)
जघानजघान (√हन् लिट् प्र.पु. एक.)
समरेसमर (७.१)
श्रीमान्श्रीमत् (१.१)
अङ्गदोअङ्गद (१.१)
वेगवान्वेगवत् (१.१)
कपिःकपि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य काञ्च चि त्रा ङ्गं
थं सा श्वं सा थिम्
घा रे श्री मा
ङ्ग दो वे वान्क पिः