६.३३.४३

भल्लैः खड्गैर्गदाभिश्च शक्तितोमर पट्टसैः ।
अपविद्धश्च भिन्नश्च रथैः सांग्रामिकैर्हयैः ॥

पदच्छेदः

भल्लैःभल्ल (३.३)
खड्गैर्खड्ग (३.३)
गदाभिश्चगदा (३.३)–च (अव्ययः)
शक्तितोमरपट्टसैःशक्ति–तोमर–पट्टिस (३.३)
अपविद्धश्चअपविद्ध (√अप-व्यध् + क्त, १.१)–च (अव्ययः)
भिन्नश्चभिन्न (√भिद् + क्त, १.१)–च (अव्ययः)
रथैःरथ (३.३)
सांग्रामिकैर्सांग्रामिक (३.३)
हयैःहय (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ल्लैः ड्गैर्ग दा भिश्च
क्ति तोट्ट सैः
वि द्धश्च भि न्नश्च
थैः सां ग्रामि कैर्ह यैः